वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣢ मि꣣त्रे꣡ वरु꣢꣯णे꣣ भ꣢गे꣣ म꣡धोः꣢ पवन्त ऊ꣣र्म꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ श꣡क्म꣢भिः ॥११३५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥११३५॥

मन्त्र उच्चारण
पद पाठ

आ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । भ꣡गे꣢꣯ । म꣡धोः꣢꣯ । प꣣वन्ते । ऊर्म꣡यः꣢ । वि꣣दानाः꣢ । अ꣣स्य । श꣡क्म꣢꣯भिः ॥११३५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1135 | (कौथोम) 4 » 2 » 2 » 8 | (रानायाणीय) 8 » 2 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब ज्ञान तथा ब्रह्मानन्द का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(मधोः) मधुर ज्ञान-रस वा ब्रह्मानन्द-रस की (ऊर्मयः) तरङ्गें (मित्रे) मित्रभूत जीवात्मा में, (वरुणे) दोषनिवारक मन में और (भगे) सेवनीय प्राण में (आ पवन्ते) आती हैं। (विदानाः) उन तरङ्गों को प्राप्त करनेवाले लोग (अस्य) इस मधुर ज्ञान वा ब्रह्मानन्द की (शक्मभिः) शक्तियों से युक्त हो जाते हैं ॥८॥

भावार्थभाषाः -

ज्ञान व ब्रह्मानन्द की तरङ्गों से शरीर में स्थित सब कुछ मन, बुद्धि, प्राण, इन्द्रियाँ आदि और रोम-रोम तरङ्गित हो जाता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ज्ञानस्य ब्रह्मानन्दस्य च विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(मधोः) मधुरस्य ज्ञानरसस्य ब्रह्मानन्दरसस्य वा (ऊर्मयः) तरङ्गा (मित्रे) मित्रभूते जीवात्मनि, (वरुणे) दोषनिवारके मनसि, (भगे) सेवनीये प्राणे च (आ पवन्ते) आगच्छन्ति। (विदानाः) तान् तरङ्गान् प्राप्नुवन्तो जनाः (अस्य) मधुरस्य ज्ञानस्य ब्रह्मानन्दस्य वा (शक्मभिः२) सामर्थ्यैः, युज्यन्ते इति शेषः। [शक्लृ शक्तौ ‘अशिशकिभ्यां छन्दसि’ उ० ४।१४८ इति मनिन्।] ॥८॥

भावार्थभाषाः -

ज्ञानस्य ब्रह्मानन्दस्य वा तरङ्गैः शरीररथं सर्वमपि मनोबुद्धिप्राणेन्द्रियादिकं रोम रोम च तरङ्गायते ॥८॥

टिप्पणी: १. ऋ० ९।७।८, ‘आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ इति पूर्वार्धपाठः। २. शक्मभिः सुखैः इति सा०। शक्तैः कर्मभिः इति वि०।